अन्नमय्य कीर्तन राधा माधव रति चरितमिति
राधामाधवरतिचरितमिति बोधावहं श्रुतिभूषणं ॥
गहने द्वावपि गत्वा गत्वा रहसि रतिं प्रेरयति सति ।विहरतस्तदा विलसन्तौ विहतगृहाशौ विवशौ तौ ॥
लज्जाशभल विलासलीलया कज्जलनयन विकारेण ।हृज्जाव्यवनहित हृदया रति स्सज्जा सम्भ्रमचपला जाता ॥
पुरतो यान्तं पुरुषं वकुलैः कुरण्टकैर्वा कुटजैर्वा ।परमं प्रहरति पश्चाल्लग्ना-गिरं विनासि विकिरति मुदं ॥
हरि सुरभूरुह मारोहतीवचरणेन कटिं संवेष्ट्य ।परिरञ्चण सम्पादितपुलकै स्सुरुचिर्जाता सुमलतिकेव ॥
विधुमुखदर्शन विकलितलज्जा- त्वधरबिम्बफलमास्वाद्य ।मधुरोपायनमार्गेण कुचौ निधिवद त्वा नित्यसुखमिता ॥
सुरुचिरकेतक सुमदल नखरै- र्वरचिबुकं सा परिवृत्य ।तरुणिमसिन्धौ तदीयदृग्जल-चरयुगलं संसक्तं चकार ॥
वचन विलासैर्वशीकृत तं निचुलकुञ्ज मानितदेशे ।प्रचुरसैकते पल्लवशयने- रचितरतिकला रागेणास ॥
अभिनवकल्याणाञ्चितरूपा- वभिनिवेश संयतचित्तौ ।बभूवतु स्तत्परौ वेङ्कट विभुना सा तद्विधिना सतया ॥
सच लज्जावीक्षणो भवति तं कचभरां गन्धं घ्रापयति ।नचलतिचेन्मानवती तथापि कुचसङ्गादनुकूलयति ॥
अवनतशिरसाप्यति सुभगं विविधालापैर्विवशयति ।प्रविमल कररुहरचन विलासै र्भुवनपति तं भूषयति ॥
लतागृहमेलनं नवसै कतवैभव सौख्यं दृष्ट्वा ।ततस्ततश्चरसौ केली- व्रतचर्यां तां वाञ्छन्तौ ।
वनकुसुम विशदवरवासनया- घनसाररजोगन्धैश्च ।जनयति पवने सपदि विकारं- वनिता पुरुषौ जनिताशौ ॥
एवं विचरन् हेला विमुख- श्रीवेङ्कटगिरि देवोयं ।पावनराधापरिरम्भसुख- श्री वैभवसुस्थिरो भवति ॥
Browse Related Categories: