अन्नमय्य कीर्तन किं करिष्यामि
किं करिष्यामि किं करोमि बहुल- शङ्कासमाधानजाड्यं वहामि ॥
नारायाणं जगन्नाथं त्रिलोकैक- पारायणं भक्तपावनं ।दूरीकरोम्यहं दुरितदूरेण सं- सारसागरमग्नचञ्चलत्वेन ॥
तिरुवेङ्कटाचलाधीश्वरं करिराज- ।वरदं शरणागतवत्सलं ।परमपुरुषं कृपाभरणं न भजामि मरणभवदेहाभिमानं वहामि॥
Browse Related Categories: