प्रातःस्मरण स्तोत्रं
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वंसच्चित्सुखं परमहंसगतिं तुरीयम् ।यत्स्वप्नजागरसुषुप्तमवैति नित्यंतद्ब्रह्म निष्कलमहं न च भूतसंघः ॥ 1 ॥
प्रातर्भजामि मनसां वचसामगम्यंवाचो विभांति निखिला यदनुग्रहेण ।यन्नेतिनेति वचनैर्निगमा अवोचुःतं देवदेवमजमच्युतमाहुरग्र्यम् ॥ 2 ॥
प्रातर्नमामि तमसः परमर्कवर्णंपूर्णं सनातनपदं पुरुषोत्तमाख्यम् ।यस्मिन्निदं जगदशेषमशेषमूर्तौरज्ज्वां भुजंगम इव प्रतिभासितं वै ॥ 3 ॥
श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम्प्रातः काले पठेद्यस्तु स गच्छेत्परमं पदम् ॥
Browse Related Categories: