त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितं ॥ 1 ॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तवपूजां करिष्यामि एकबिल्वं शिवार्पितं ॥ 2 ॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं ।
अघोरपापसंहारं एकबिल्वं शिवार्पितं ॥ 3 ॥
सालग्रामेषु विप्रेषु तटाके वनकूपयोः ।
यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितं ॥ 4 ॥
दंतिकोटि सहस्रेषु अश्वमेध शतानि च ।
कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितं ॥ 5 ॥
एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् ।
महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितं ॥ 6 ॥
काशीक्षेत्रे निवासं च कालभैरव दर्शनं ।
गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितं ॥ 7 ॥
उमया सह देवेशं वाहनं नंदिशंकरं ।
मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितं ॥ 8 ॥
इति श्री बिल्वाष्टकम् ॥
----------------
विकल्प संकर्पण
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणं ॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तवपूजां करिष्यामि एकबिल्वं शिवार्पणं ॥
कोटि कन्या महादानं तिलपर्वत कोटयः ।
कांचनं शैलदानेन एकबिल्वं शिवार्पणं ॥
काशीक्षेत्र निवासं च कालभैरव दर्शनं ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणं ॥
इंदुवारे व्रतं स्थित्वा निराहारो महेश्वराः ।
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणं ॥
रामलिंग प्रतिष्ठा च वैवाहिक कृतं तथा ।
तटाकानिच संधानं एकबिल्वं शिवार्पणं ॥
अखंड बिल्वपत्रं च आयुतं शिवपूजनं ।
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणं ॥
उमया सहदेवेश नंदि वाहनमेव च ।
भस्मलेपन सर्वांगं एकबिल्वं शिवार्पणं ॥
सालग्रामेषु विप्राणां तटाकं दशकूपयोः ।
यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणं ॥
दंति कोटि सहस्रेषु अश्वमेधशतक्रतौ च ।
कोटिकन्या महादानं एकबिल्वं शिवार्पणं ॥
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं ।
अघोर पापसंहारं एकबिल्वं शिवार्पणं ॥
सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते ।
अनेकव्रत कोटीनां एकबिल्वं शिवार्पणं ॥
अन्नदान सहस्रेषु सहस्रोपनयनं तधा ।
अनेक जन्मपापानि एकबिल्वं शिवार्पणं ॥
बिल्वाष्टकमिदम् पुण्यं यः पठेश्शिव सन्निधौ ।
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणं ॥
Browse Related Categories: