अष्टादश शक्तिपीठ स्तोत्रम्
लंकायां शांकरीदेवी कामाक्षी कांचिकापुरे ।प्रद्युम्ने शृंखलादेवी चामुंडी क्रौंचपट्टणे ॥ 1 ॥
अलंपुरे जोगुलांबा श्रीशैले भ्रमरांबिका ।कॊल्हापुरे महालक्ष्मी मुहुर्ये एकवीरा ॥ 2 ॥
उज्जयिन्यां महाकाली पीठिकायां पुरुहूतिका ।ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटिके ॥ 3 ॥
हरिक्षेत्रे कामरूपी प्रयागे माधवेश्वरी ।ज्वालायां वैष्णवीदेवी गया मांगल्यगौरिका ॥ 4 ॥
वारणाश्यां विशालाक्षी काश्मीरेतु सरस्वती ।अष्टादश सुपीठानि योगिनामपि दुर्लभं ॥ 5 ॥
सायंकाले पठेन्नित्यं सर्वशत्रुविनाशनं ।सर्वरोगहरं दिव्यं सर्वसंपत्करं शुभम् ॥ 6 ॥
Browse Related Categories: