| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
श्री लक्ष्मी नृसिंहाष्टोत्तर शतनाम स्तोत्रम् नारसिंहो महासिंहो दिव्यसिंहो महाबलः । रौद्रस्सर्वाद्भुतः श्रीमान् योगानंदस्त्रिविक्रमः । पंचाननः परब्रह्म चाऽघोरो घोरविक्रमः । निटिलाक्षस्सहस्राक्षो दुर्निरीक्षः प्रतापनः । हिरण्यकशिपुध्वंसी दैत्यदानवभंजनः । करालो विकरालश्च विकर्ता सर्वकर्तृकः । भैरवाडंबरो दिव्यश्चाऽच्युतः कवि माधवः । विश्वंभरोऽद्भुतो भव्यः श्रीविष्णुः पुरुषोत्तमः । सहस्रबाहुःस्सर्वज्ञस्सर्वसिद्धिप्रदायकः । सर्वमंत्रैकरूपश्च सर्वयंत्रविदारणः । वैशाखशुक्लभूतोत्थः शरणागतवत्सलः । वेदत्रयप्रपूज्यश्च भगवान्परमेश्वरः । जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् । परतत्त्वः परंधाम सच्चिदानंदविग्रहः । इदं श्रीमन्नृसिंहस्य नाम्नामष्टोत्तरं शतं । इति श्रीनृसिंहपूजाकल्पे श्री लक्ष्मीनृसिंहाष्टोत्तरशतनाम स्तोत्रम् ।
|