View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्रि दत्त स्तवम्

दत्तात्रेयं महात्मानं वरदं भक्तवत्सलं ।
प्रपन्नार्तिहरं वंदे स्मर्तृगामि सनोवतु ॥ 1 ॥

दीनबंधुं कृपासिंधुं सर्वकारणकारणं ।
सर्वरक्षाकरं वंदे स्मर्तृगामि सनोवतु ॥ 2 ॥

शरणागतदीनार्त परित्राणपरायणं ।
नारायणं विभुं वंदे स्मर्तृगामि सनोवतु ॥ 3 ॥

सर्वानर्थहरं देवं सर्वमंगल मंगलं ।
सर्वक्लेशहरं वंदे स्मर्तृगामि सनोवतु ॥ 4 ॥

ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनं ।
भक्ताऽभीष्टप्रदं वंदे स्मर्तृगामि सनोवतु ॥ 5 ॥

शोषणं पापपंकस्य दीपनं ज्ञानतेजसः ।
तापप्रशमनं वंदे स्मर्तृगामि सनोवतु ॥ 6 ॥

सर्वरोगप्रशमनं सर्वपीडानिवारणं ।
विपदुद्धरणं वंदे स्मर्तृगामि सनोवतु ॥ 7 ॥

जन्मसंसारबंधघ्नं स्वरूपानंददायकं ।
निश्श्रेयसपदं वंदे स्मर्तृगामि सनोवतु ॥ 8 ॥

जय लाभ यशः काम दातुर्दत्तस्य यः स्तवं ।
भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत् ॥9 ॥

इति श्री दत्तस्तवम् ।







Browse Related Categories: