| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
शिव सहस्र नाम स्तोत्रम् ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः । जटी चर्मी शिखंडी च सर्वांगः सर्वांगः सर्वभावनः । प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । अभिवाद्यो महाकर्मा तपस्वी भूत भावनः । महारूपो महाकायो वृषरूपो महायशाः । लोकपालोऽंतर्हितात्मा प्रसादो हयगर्दभिः । सर्वकर्मा स्वयंभूश्चादिरादिकरो निधिः । चंद्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः । महातपा घोर तपाऽदीनो दीनसाधकः । योगी योज्यो महाबीजो महारेता महातपाः । दशबाहुस्त्वनिमिषो नीलकंठ उमापतिः । गणकर्ता गणपतिर्दिग्वासाः काम एव च । कमंडलुधरो धन्वी बाणहस्तः कपालवानः । स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः । दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च । अजश्च मृगरूपश्च गंधधारी कपर्द्यपि । त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः । गजहा दैत्यहा लोको लोकधाता गुणाकरः । कालयोगी महानादः सर्ववासश्चतुष्पथः । बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः । घोरो महातपाः पाशो नित्यो गिरि चरो नभः । अमर्षणो मर्षणात्मा यघ्यहा कामनाशनः । तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः । न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः । विष्वक्सेनो हरिर्यघ्यः संयुगापीडवाहनः । विष्णुप्रसादितो यघ्यः समुद्रो वडवामुखः । उग्रतेजा महातेजा जयो विजयकालवितः । शिखी दंडी जटी ज्वाली मूर्तिजो मूर्धगो बली । नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः । विमोचनः सुरगणो हिरण्यकवचोद्भवः । सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः । त्रिदशस्त्रिकालधृकः कर्म सर्वबंधविमोचनः । सांख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः । सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः । लोहिताक्शो महाऽक्शश्च विजयाक्शो विशारदः । मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः । सर्वकामवरश्चैव सर्वदः सर्वतोमुखः । रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी । सर्वावासी श्रियावासी उपदेशकरो हरः । पक्शी च पक्शिरूपी चातिदीप्तो विशांपतिः । वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः । भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः । वज्रहस्तश्च विष्कंभी चमूस्तंभनैव च । वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः । ईशान ईश्वरः कालो निशाचारी पिनाकधृकः । नंदीश्वरश्च नंदी च नंदनो नंदिवर्धनः । चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च । बीजाध्यक्शो बीजकर्ताऽध्यात्मानुगतो बलः । दंभो ह्यदंभो वैदंभो वैश्यो वश्यकरः कविः । अक्शरं परमं ब्रह्म बलवानः शक्र एव च । बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजितः । महामेघनिवासी च महाघोरो वशीकरः । वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः । स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः । कृष्णवर्णः सुवर्णश्चेंद्रियः सर्वदेहिनामः । महामूर्धा महामात्रो महानेत्रो दिगालयः । महानासो महाकंबुर्महाग्रीवः श्मशानधृकः । लंबनो लंबितोष्ठश्च महामायः पयोनिधिः । महानखो महारोमा महाकेशो महाजटः । स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः । मंडली मेरुधामा च देवदानवदर्पहा । यजुः पाद भुजो गुह्यः प्रकाशो जंगमस्तथा । उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः । द्वादशस्त्रासनश्चाद्यो यघ्यो यघ्यसमाहितः । सगणो गण कारश्च भूत भावन सारथिः । अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः । आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः । कपिलोऽकपिलः शूरायुश्चैव परोऽपरः । परश्वधायुधो देवार्थ कारी सुबांधवः । उग्रो वंशकरो वंशो वंशनादो ह्यनिंदितः । बंधनो बंधकर्ता च सुबंधनविमोचनः । बाहुस्त्वनिंदितः शर्वः शंकरः शंकरोऽधनः । अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा । धन्वंतरिर्धूमकेतुः स्कंदो वैश्रवणस्तथा । प्रभावः सर्वगो वायुरर्यमा सविता रविः । रतितीर्थश्च वाग्मी च सर्वकामगुणावहः । बलवांश्चोपशांतश्च पुराणः पुण्यचझ्ण्चुरी । सर्वाशयो दर्भशायी सर्वेषां प्राणिनांपतिः । कैलास शिखरावासी हिमवदः गिरिसंश्रयः । वणिजो वर्धनो वृक्शो नकुलश्चंदनश्छदः । सिद्धार्थकारी सिद्धार्थश्चंदो व्याकरणोत्तरः । प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः । भूतालयो भूतपतिरहोरात्रमनिंदितः ॥ 83 ॥ वाहिता सर्वभूतानां निलयश्च विभुर्भवः । धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः । हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः । गांधारश्च सुरालश्च तपः कर्म रतिर्धनुः । महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः । तोरणस्तारणो वायुः परिधावति चैकतः । नित्यात्मसहायश्च देवासुरपतिः पतिः । आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः । शिरोहारी विमर्शश्च सर्वलक्शण भूषितः । समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः । रत्न प्रभूतो रक्तांगो महाऽर्णवनिपानवितः । आरोहणो निरोहश्च शलहारी महातपाः । युगरूपो महारूपो पवनो गहनो नगः । बहुमालो महामालः सुमालो बहुलोचनः । वृषभो वृषभांकांगो मणि बिल्वो जटाधरः । निवेदनः सुधाजातः सुगंधारो महाधनुः । मंथानो बहुलो बाहुः सकलः सर्वलोचनः । छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः । हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपातः । सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृतः । ब्रह्मदंडविनिर्माता शतघ्नी शतपाशधृकः । गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः । ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः । कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः । वरो वराहो वरदो वरेशः सुमहास्वनः । प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः । चराचरात्मा सूक्श्मात्मा सुवृषो गो वृषेश्वरः । व्यासः सर्वस्य संक्शेपो विस्तरः पर्ययो नयः । कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्शपाः क्शणाः । सदसदः व्यक्तमव्यक्तं पिता माता पितामहः । निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः । देवासुरगुरुर्देवो देवासुरनमस्कृतः । देवासुरगणाध्यक्शो देवासुरगणाग्रणीः । देवासुरेश्वरोदेवो देवासुरमहेश्वरः । उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽंबरः । विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः । गुरुः कांतो निजः सर्गः पवित्रः सर्ववाहनः । अभिरामः सुरगणो विरामः सर्वसाधनः । स्थावराणांपतिश्चैव नियमेंद्रियवर्धनः । व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः । श्रीमानः श्रीवर्धनो जगतः ॐ नम इति ॥ इति श्री महाभारते अनुशासन पर्वे श्री शिव सहस्रनाम स्तोत्रम् संपूर्णम् ॥
|