ललिता पंच रत्नम्
प्रातः स्मरामि ललितावदनारविंदंबिंबाधरं पृथुलमौक्तिकशोभिनासम् ।आकर्णदीर्घनयनं मणिकुंडलाढ्यंमंदस्मितं मृगमदोज्ज्वलफालदेशम् ॥ 1 ॥
प्रातर्भजामि ललिताभुजकल्पवल्लींरक्तांगुलीयलसदंगुलिपल्लवाढ्याम् ।माणिक्यहेमवलयांगदशोभमानांपुंड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥ 2 ॥
प्रातर्नमामि ललिताचरणारविंदंभक्तेष्टदाननिरतं भवसिंधुपोतम् ।पद्मासनादिसुरनायकपूजनीयंपद्मांकुशध्वजसुदर्शनलांछनाढ्यम् ॥ 3 ॥
प्रातः स्तुवे परशिवां ललितां भवानींत्रय्यंतवेद्यविभवां करुणानवद्याम् ।विश्वस्य सृष्टविलयस्थितिहेतुभूतांविद्येश्वरीं निगमवाङ्ममनसातिदूराम् ॥ 4 ॥
प्रातर्वदामि ललिते तव पुण्यनामकामेश्वरीति कमलेति महेश्वरीति ।श्रीशांभवीति जगतां जननी परेतिवाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ 5 ॥
यः श्लोकपंचकमिदं ललितांबिकायाःसौभाग्यदं सुललितं पठति प्रभाते ।तस्मै ददाति ललिता झटिति प्रसन्नाविद्यां श्रियं विमलसौख्यमनंतकीर्तिम् ॥
Browse Related Categories: