View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

तैत्तिरीय उपनिषद् - भृगुवल्ली

हरिः ओम् । स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शांतिः॒ शांतिः॒ शांतिः॑ ।

भ्रुगु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ एत॒त्प्रो॑वाच । अन्नं॑ प्रा॒णं चक्षु॒श्रोत्रं॒ मनो॒ वाच॒मिति॑ । तग्ं हो॑वाच । यतो॒ वा इ॒मानि॒ भुता॑नि॒ जायं॑ते । येन॒ जाता॑नि॒ जीवं॑ति । यत्प्रयं॑त्यभिसंवि॑शंति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । ॥ 1 ॥

अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जायं॑ते । अन्ने॑न॒ जाता॑नि॒ जीवं॑ति । अन्नं॒ प्रयं॑त्य॒भिसंवि॑शं॒तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । ॥ 2 ॥

प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् । प्रा॒णाध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जायं॑ते । प्रा॒णेन॒ जाता॑नि॒ जीवं॑ति । प्रा॒णं प्रयं॑त्य॒भि संवि॑शं॒तीति॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । ॥ 3 ॥

मनो॒ ब्रह्मेति॒ व्य॑जानात्। मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जायं॑ते । मन॑सा॒ जाता॑नि॒ जीवं॑ति । मनः॒ प्रयं॑त्य॒भि संवि॑शं॒तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । ॥ 4 ॥

वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जायं॑ते । वि॒ज्ञाने॑न॒ जाता॑नि॒ जीवं॑ति । वि॒ज्ञानं॒ प्रयं॑त्य॒भिसंवि॑शं॒तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । ॥ 5 ॥

आ॒नं॒दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नंदा॒ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जायं॑ते । आ॒नं॒देन॒ जाता॑नि॒ जीवं॑ति । आ॒नं॒दं प्रयं॑त्य॒भिसंवि॑शं॒तीति॑ । सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न् प्रति॑ष्ठिता । स य ए॒वं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या । ॥ 6 ॥

अन्नं॒ न निं॑द्यात् । तद्-व्र॒तम् । प्रा॒णो वा अन्नम्᳚ । शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम् । शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्टितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या । ॥ 7 ॥

अन्नं॒ न परि॑चक्षीत । तद्-व्र॒तम् । आपो॒ वा अन्नम्᳚ । ज्योति॑रन्ना॒दम् । अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम् । ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः। तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या । ॥ 8 ॥

अन्नं॑ ब॒हु कु॑र्वीत । तद्-व्र॒तम् । पृ॒थि॒वी वा अन्नम्᳚ । आ॒का॒शो᳚ऽन्ना॒दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः । आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या । ॥ 9 ॥

न कंचन वसतौ प्रत्या॑चक्षी॒त । तद्-व्र॒तम् । तस्माद्यया कया च विधया बह्व॑न्नं प्रा॒प्नुयात् । अराध्यस्मा अन्नमि॑त्याच॒क्षते । एतद्वै मुखतो᳚ऽन्नग्ं रा॒द्धम् । मुखतोऽस्मा अ॑न्नग्ं रा॒ध्यते । एतद्वै मध्यतो᳚ऽन्नग्ं रा॒द्धम् । मध्यतोऽस्मा अ॑न्नग्ं रा॒ध्यते । एतद्वा अंततो᳚ऽन्नग्ं रा॒द्धम् । अंततोऽस्मा अ॑न्नग्ं रा॒ध्यते । य ए॑वं वे॒द । क्षेम इ॑ति वा॒चि । योगक्षेम इति प्रा॑णापा॒णयोः । कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ । इति मानुषी᳚स्समा॒ज्ञाः । अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ । बलमि॑ति वि॒द्युति । यश इ॑ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु । प्रजातिरमृतमानंद इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे । तत्प्रतिष्ठेत्यु॑पासी॒त। प्रतिष्ठा॑वान्भ॒वति । तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति । तन्मन इत्यु॑पासी॒त । मान॑वान्भ॒वति । तन्नम इत्यु॑पासी॒त । नम्यंते᳚ऽस्मै का॒माः । तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति । तद्ब्रह्मणः परिमर इत्यु॑पासी॒त । पर्येणं म्रियंते द्वि षंत॑स्सप॒त्नाः । परि ये᳚ऽप्रिया᳚ भ्रातृ॒व्याः । स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ । स य॑ एवं॒ वित् । अस्माल्लो॑कात्प्रे॒त्य । एतमन्नमयमात्मानमुप॑ संक्र॒म्य ॥ एतं प्राणमयमात्मानमुप॑ संक्र॒म्य । एतं मनोमयमात्मानमुप॑ संक्र॒म्य । एतं विज्ञानमयमात्मानमुप॑ संक्र॒म्य । एतमानंदमयमात्मानमुप॑ संक्र॒म्य । इमान् लोकान् कामान्नी कामरूप्य॑नु सं॒चरन्न् । एतथ्साम गा॑यन्ना॒स्ते । हा(3) वु॒ हा(3) वु॒ हा(3) वु॑ । अ॒हमन्नम॒हमन्नम॒हमन्नम् । अ॒हमन्ना॒दो(2)ऽ॒हमन्ना॒दो(2)ऽ॒हमन्ना॒दः । अ॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृत् । अ॒हमस्मि प्रथमजा ऋता(3) स्य॒ । पूर्वं देवेभ्यो अमृतस्य ना(3) भा॒यि॒ । यो मा ददाति स इदेव मा(3) वाः॒ । अ॒हमन्न॒मन्न॑म॒दंत॒मा(3) द्मि॒ । अहं॒ विश्वं॒ भुव॑न॒मभ्य॑भ॒वाम् । सुव॒र्न ज्योतीः᳚ । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् । ॥ 10 ॥

स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

॥ हरिः॑ ओम् ॥
॥ श्री कृष्णार्पणमस्तु ॥







Browse Related Categories: