| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
शिव कवचम् अस्य श्री शिवकवच स्तोत्र\f1 \f0 महामंत्रस्य ऋषभयोगीश्वर ऋषिः । करन्यासः शिं शूलपाणये अनामिकाभ्यां नमः । वां पिनाकपाणये कनिष्ठिकाभ्यां नमः । यं उमापतये करतलकरपृष्ठाभ्यां नमः । हृदयादि अंगन्यासः शिं शूलपाणये कवचाय हुं । वां पिनाकपाणये नेत्रत्रयाय वौषट् । यं उमापतये अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बंधः ॥ ध्यानम् अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् । पंचपूजा मंत्रः ऋषभ उवाच नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् । शुचौ देशे समासीनो यथावत्कल्पितासनः । हृत्पुंडरीकांतरसन्निविष्टं स्वतेजसा व्याप्तनभोऽवकाशम् । ध्यानावधूताखिलकर्मबंध- श्चिरं चिदानंद निमग्नचेताः । मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे । सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्योतिर्मयानंदघनश्चिदात्मा । यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः । कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः । प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणिः । कुठारखेटांकुश शूलढक्का- कपालपाशाक्ष गुणांदधानः । कुंदेंदुशंखस्फटिकावभासो वेदाक्षमाला वरदाभयांकः । वराक्षमालाभयटंकहस्तः सरोजकिंजल्कसमानवर्णः । वेदाभयेष्टांकुशटंकपाश- कपालढक्काक्षरशूलपाणिः । मूर्धानमव्यान्मम चंद्रमौलिः भालं ममाव्यादथ भालनेत्रः । पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली । कंठं गिरीशोऽवतु नीलकंठः पाणिद्वयं पातु पिनाकपाणिः । ममोदरं पातु गिरींद्रधन्वा मध्यं ममाव्यान्मदनांतकारी । ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् । महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः । पायान्निशादौ शशिशेखरो मां गंगाधरो रक्षतु मां निशीथे । अंतःस्थितं रक्षतु शंकरो मां स्थाणुः सदा पातु बहिःस्थितं माम् । तिष्ठंतमव्याद् भुवनैकनाथः पायाद्व्रजंतं प्रमथाधिनाथः । मार्गेषु मां रक्षतु नीलकंठः शैलादिदुर्गेषु पुरत्रयारिः । कल्पांतकालोग्रपटुप्रकोप- स्फुटाट्टहासोच्चलितांडकोशः । पत्त्यश्वमातंगरथावरूथिनी- सहस्रलक्षायुत कोटिभीषणम् । निहंतु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरांतकस्य । शार्दूलसिंहर्क्षवृकादिहिंस्रान् संत्रासयत्वीशधनुः पिनाकः ॥ दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य- दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि । उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ॥ ॐ नमो भगवते सदाशिवाय सकलतत्वात्मकाय सर्वमंत्रस्वरूपाय सर्वयंत्राधिष्ठिताय सर्वतंत्रस्वरूपाय सर्वतत्वविदूराय ब्रह्मरुद्रावतारिणे नीलकंठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय महामणि मुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकाल- रौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलधारैकनिलयाय तत्वातीताय गंगाधराय सर्वदेवादिदेवाय षडाश्रयाय वेदांतसाराय त्रिवर्गसाधनाय अनंतकोटिब्रह्मांडनायकाय अनंत वासुकि तक्षक- कर्कोटक शंख कुलिक- पद्म महापद्मेति- अष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय आकाश दिक् स्वरूपाय ग्रहनक्षत्रमालिने सकलाय कलंकरहिताय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवेदांतपारगाय सकललोकैकवरप्रदाय सकललोकैकशंकराय सकलदुरितार्तिभंजनाय सकलजगदभयंकराय शशांकशेखराय शाश्वतनिजावासाय निराकाराय निराभासाय निरामयाय निर्मलाय निर्मदाय निश्चिंताय निरहंकाराय निरंकुशाय निष्कलंकाय निर्गुणाय निष्कामाय निरूपप्लवाय निरुपद्रवाय निरवद्याय निरंतराय निष्कारणाय निरातंकाय निष्प्रपंचाय निस्संगाय निर्द्वंद्वाय निराधाराय नीरागाय निष्क्रोधाय निर्लोपाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियाय निस्तुलाय निःसंशयाय निरंजनाय निरुपमविभवाय नित्यशुद्धबुद्धमुक्तपरिपूर्ण- सच्चिदानंदाद्वयाय परमशांतस्वरूपाय परमशांतप्रकाशाय तेजोरूपाय तेजोमयाय तेजोऽधिपतये जय जय रुद्र महारुद्र महारौद्र भद्रावतार महाभैरव कालभैरव कल्पांतभैरव कपालमालाधर खट्वांग चर्मखड्गधर पाशांकुश- डमरूशूल चापबाणगदाशक्तिभिंदिपाल- तोमर मुसल मुद्गर पाश परिघ- भुशुंडी शतघ्नी चक्राद्यायुधभीषणाकार- सहस्रमुखदंष्ट्राकरालवदन विकटाट्टहास विस्फारित ब्रह्मांडमंडल नागेंद्रकुंडल नागेंद्रहार नागेंद्रवलय नागेंद्रचर्मधर नागेंद्रनिकेतन मृत्युंजय त्र्यंबक त्रिपुरांतक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन विषविभूषण विश्वतोमुख सर्वतोमुख मां रक्ष रक्ष ज्वलज्वल प्रज्वल प्रज्वल महामृत्युभयं शमय शमय अपमृत्युभयं नाशय नाशय रोगभयं उत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान् मारय मारय मम शत्रून् उच्चाटयोच्चाटय त्रिशूलेन विदारय विदारय कुठारेण भिंधि भिंधि खड्गेन छिंद्दि छिंद्दि खट्वांगेन विपोधय विपोधय मुसलेन निष्पेषय निष्पेषय बाणैः संताडय संताडय यक्ष रक्षांसि भीषय भीषय अशेष भूतान् विद्रावय विद्रावय कूष्मांडभूतवेतालमारीगण- ब्रह्मराक्षसगणान् संत्रासय संत्रासय मम अभयं कुरु कुरु मम पापं शोधय शोधय वित्रस्तं मां आश्वासय आश्वासय नरकमहाभयान् मां उद्धर उद्धर अमृतकटाक्षवीक्षणेन मां- आलोकय आलोकय संजीवय संजीवय क्षुत्तृष्णार्तं मां आप्यायय आप्यायय दुःखातुरं मां आनंदय आनंदय शिवकवचेन मां आच्छादय आच्छादय हर हर मृत्युंजय त्र्यंबक सदाशिव परमशिव नमस्ते नमस्ते नमः ॥ पूर्ववत् - हृदयादि न्यासः । पंचपूजा ॥ भूर्भुवस्सुवरोमिति दिग्विमोकः ॥ फलश्रुतिः यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् । क्षीणायुः प्राप्तमृत्युर्वा महारोगहतोऽपि वा । सर्वदारिद्रयशमनं सौमांगल्यविवर्धनम् । महापातकसंघातैर्मुच्यते चोपपातकैः । त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम् । श्रीसूत उवाच इत्युक्त्वा ऋषभो योगी तस्मै पार्थिव सूनवे । पुनश्च भस्म संमंत्र्य तदंगं परितोऽस्पृशत् । भस्मप्रभावात् संप्राप्तबलैश्वर्य धृति स्मृतिः । तमाह प्रांजलिं भूयः स योगी नृपनंदनम् । शितधारमिमं खड्गं यस्मै दर्शयसे स्फुटम् । अस्य शंखस्य निर्ह्रादं ये शृण्वंति तवाहिताः । खड्गशंखाविमौ दिव्यौ परसैन्यविनाशकौ । एतयोश्च प्रभावेन शैवेन कवचेन च । भस्मधारण सामर्थ्याच्छत्रुसैन्यं विजेष्यसे । इति भद्रायुषं सम्यगनुशास्य समातृकम् । इति श्रीस्कांदमहापुराणे ब्रह्मोत्तरखंडे शिवकवच प्रभाव वर्णनं नाम द्वादशोऽध्यायः संपूर्णः ॥ ॥
|