दुर्गा पंच रत्नम्
ते ध्यानयोगानुगता अपश्यन्त्वामेव देवीं स्वगुणैर्निगूढाम् ।त्वमेव शक्तिः परमेश्वरस्यमां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 1 ॥
देवात्मशक्तिः श्रुतिवाक्यगीतामहर्षिलोकस्य पुरः प्रसन्ना ।गुहा परं व्योम सतः प्रतिष्ठामां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 2 ॥
परास्य शक्तिः विविधैव श्रूयसेश्वेताश्ववाक्योदितदेवि दुर्गे ।स्वाभाविकी ज्ञानबलक्रिया तेमां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 3 ॥
देवात्मशब्देन शिवात्मभूतायत्कूर्मवायव्यवचोविवृत्यात्वं पाशविच्छेदकरी प्रसिद्धामां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 4 ॥
त्वं ब्रह्मपुच्छा विविधा मयूरीब्रह्मप्रतिष्ठास्युपदिष्टगीता ।ज्ञानस्वरूपात्मतयाखिलानांमां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 5 ॥
इति परमपूज्य श्री चंद्रशेखरेंद्र सरस्वती स्वामि कृतं दुर्गा पंचरत्नं संपूर्णं ।
Browse Related Categories: