| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
तैत्तिरीय उपनिषद् - आनंदवल्ली हरिः ओम् ॥ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥ ब्र॒ह्म॒विदा᳚प्नोति॒ परम्᳚ ॥ तदे॒षाऽभ्यु॑क्ता । स॒त्यं ज्ञा॒नम॑नं॒तं ब्रह्म॑ । यो वेद॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन्न् । सो᳚ऽश्नु॒ते॒ सर्वा॒न्कामां᳚थ्स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ ॥ तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शस्संभू॑तः । आ॒का॒शाद्वा॒युः । वा॒योर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी । पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्योन्नम्᳚ । अन्ना॒त्पुरु॑षः । स वा एष पुरुषोऽन्न॑रस॒मयः । तस्येद॑मेव॒ शिरः । अयं दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः । अयमात्मा᳚ । इदं पुच्छम्॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥ अन्ना॒द्वै प्र॒जाः प्र॒जायं॑ते । याः काश्च॑ पृथि॒वीग् श्रि॒ताः । अथो॒ अन्ने॑नै॒व जी॑वंति। अथै॑न॒दपि॑ यंत्यंत॒तः । अन्न॒ग्ं॒ हि भु॒तानां॒ ज्येष्ठम्᳚ । तस्मा᳚थ्सर्वौष॒धमु॑च्यते । सर्वं॒ वै तेऽन्न॑माप्नुवंति । येऽन्नं॒ ब्रह्मो॒पास॑ते । अन्न॒ग्ं॒ हि भु॒तानां॒ ज्येष्ठम्᳚ । तस्मा᳚थ्सर्वौष॒धमु॑च्यते । अन्ना᳚द्भू॒तानि॒ जायं॑ते । जाता॒न्यन्नेन॑ वर्धंते । अद्यतेऽत्ति च॑ भूता॒नि । तस्मादन्नं तदुच्य॑त इ॒ति । तस्माद्वा एतस्मादन्न॑रस॒मयात् । अन्योंतर आत्मा᳚ प्राण॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य प्राण॑ एव॒ शिरः । व्यानो दक्षि॑णः प॒क्षः । अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा । पृथिवी पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 2 ॥ प्रा॒णं दे॒वा अनु॒प्राणं॑ति । म॒नु॒ष्याः᳚ प॒शव॑श्च॒ ये । प्रा॒णो हि भू॒तना॒मायुः॑ । तस्मा᳚थ्सर्वायु॒षमु॑च्यते । सर्व॑मे॒व त॒ आयु॑र्यंति । ये प्रा॒णं ब्रह्मो॒पास॑ते । प्राणो हि भूता॑नामा॒युः । तस्माथ्सर्वायुषमुच्य॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा᳚त्-प्राण॒मयात् । अन्योऽंतर आत्मा॑ मनो॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व। तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य यजु॑रेव॒ शिरः । ऋग्-दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः । आदे॑श आ॒त्मा । अथर्वांगिरसः पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 3 ॥ यतो॒ वाचो॒ निव॑र्तंते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनंदं ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा᳚न्-मनो॒मयात् । अन्योऽंतर आत्मा वि॑ज्ञान॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य श्र॑द्धैव॒ शिरः । ऋतं दक्षि॑णः प॒क्षः । सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 4 ॥ अस॑न्ने॒व स॑ भवति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् । अस्ति ब्रह्मेति॑ चेद्वे॒द । संतमेनं ततो वि॑दुरि॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । अथातो॑ऽनुप्र॒श्नाः । उ॒तावि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्च॒न ग॑च्च॒ती(3) । आहो॑ वि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कस्चि॒थ्सम॑श्नु॒ता(3) उ॒ । सो॑ऽकामयत । ब॒हु स्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । इदग्ं सर्व॑मसृजत । यदि॒दं किंच॑ । तथ्सृ॒ष्ट्वा । तदे॒वानु॒प्रावि॑शत् । तद॑नुप्र॒विश्य॑ । सच्च॒ त्यच्चा॑भवत् । नि॒रुक्तं॒ चानि॑रुक्तं च । नि॒लय॑नं॒ चानि॑लयनं च । वि॒ज्ञानं॒ चावि॑ज्ञनं च । सत्यं चानृतं च स॑त्यम॒भवत् । यदि॑दं किं॒च । तथ्सत्यमि॑त्याच॒क्षते । तदप्येष श्लो॑को भ॒वति ॥ 6 ॥ अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत । तदात्मानग्ग् स्वय॑मकु॒रुत । तस्मात्तथ्सुकृतमुच्य॑त इ॒ति । यद्वै॑ तथ्सु॒कृतम् । र॑सो वै॒ सः । रसग्ग् ह्येवायं लब्ध्वाऽऽनं॑दी भ॒वति । को ह्येवान्या᳚त्कः प्रा॒ण्यात् । यदेष आकाश आनं॑दो न॒ स्यात् । एष ह्येवाऽऽनं॑दया॒ति । य॒दा ह्ये॑वैष॒ एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रति॑ष्ठां विं॒दते । अथ सोऽभयं ग॑तो भ॒वति । य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमंत॑रं कु॒रुते । अथ तस्य भ॑यं भ॒वति । तत्वेव भयं विदुषोऽम॑न्वान॒स्य । तदप्येष श्लो॑को भ॒वति ॥ 7 ॥ भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भी॒षाऽस्मादग्नि॑श्चेंद्र॒श्च । मृत्युर्धावति पंच॑म इ॒ति । सैषाऽऽनंदस्य मीमाग्ं॑सा भ॒वति । युवा स्याथ्साधुयु॑वाऽध्या॒यकः । आशिष्ठो दृडिष्ठो॑ बलि॒ष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् । स एको मानुष॑ आनं॒दः । ते ये शतं मानुषा॑ आनं॒दाः । स एको मनुष्यगंधर्वाणा॑मानं॒दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं देवगंधर्वाणा॑मानं॒दाः । स एकः पितृणां चिरलोकलोकाना॑मानं॒दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं पितृणां चिरलोकलोकाना॑मानं॒दाः । स एक आजानजानां देवाना॑मानं॒दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमाजानजानां देवाना॑मानं॒दाः । स एकः कर्मदेवानां देवाना॑मानं॒दः । ये कर्मणा देवान॑पि यं॒ति । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं कर्मदेवानां देवाना॑मानं॒दाः । स एको देवाना॑मानं॒दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं देवाना॑मानं॒दाः । स एक इंद्र॑स्याऽऽनंं॒दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमिंद्र॑स्याऽऽनं॒दाः । स एको बृहस्पते॑रानं॒दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं बृहस्पते॑रानं॒दाः । स एकः प्रजापते॑रानं॒दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं प्रजापते॑रानं॒दाः । स एको ब्रह्मण॑ आनं॒दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं पजापते॑रानं॒दाः । स एको ब्रह्मण॑ आनं॒दः । श्रोत्रियस्य चाकाम॑हत॒स्य । स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ । स य॑ एवं॒ वित् । अस्माल्लो॑कात्प्रे॒त्य । एतमन्नमयमात्मानमुप॑संक्रा॒मति । एतं प्राणमयमात्मानमुप॑संक्रा॒मति । एतं मनोमयमात्मानमुप॑संक्रा॒मति। एतं विज्ञानमयमात्मानमुप॑संक्रा॒मति । एतमानंदमयमात्मानमुप॑संक्रा॒मति । तदप्येष श्लो॑को भ॒वति ॥ 8 ॥ यतो॒ वाचो॒ निव॑र्तंते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनंदं ब्रह्म॑णो वि॒द्वान् । न बिभेति कुत॑श्चने॒ति । एतग्ं ह वाव॑ न त॒पति । किमहग्ं साधु॑ नाक॒रवम् । किमहं पापमकर॑वमि॒ति । स य एवं विद्वानेते आत्मा॑नग्ग् स्पृ॒णुते । उ॒भे ह्ये॑वैष॒ एते आत्मा॑नग्ग् स्पृ॒णुते । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ 9 ॥ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥ ॥ हरिः॑ ओम् ॥
|