View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

कनकधारा स्तोत्रम्

वंदे वंदारु मंदारमिंदिरानंद कंदलं
अमंदानंद संदोह बंधुरं सिंधुराननम्

अंगं हरेः पुलकभूषणमाश्रयंती
भृंगांगनेव मुकुलाभरणं तमालम् ।
अंगीकृताखिल विभूतिरपांगलीला
मांगल्यदास्तु मम मंगलदेवतायाः ॥ 1 ॥

मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
मालादृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागर संभवा याः ॥ 2 ॥

आमीलिताक्षमधिग्यम मुदा मुकुंदम्
आनंदकंदमनिमेषमनंग तंत्रं ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवन्मम भुजंग शयांगना याः ॥ 3 ॥

बाह्वंतरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालया याः ॥ 4 ॥

कालांबुदालि ललितोरसि कैटभारेः
धाराधरे स्फुरति या तटिदंगनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनंदना याः ॥ 5 ॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
मांगल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मंथरमीक्षणार्थं
मंदालसं च मकरालय कन्यका याः ॥ 6 ॥

विश्वामरेंद्र पद विभ्रम दानदक्षम्
आनंदहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्थं
इंदीवरोदर सहोदरमिंदिरा याः ॥ 7 ॥

इष्टा विशिष्टमतयोपि यया दयार्द्र
दृष्ट्या त्रिविष्टपपदं सुलभं लभंते ।
दृष्टिः प्रहृष्ट कमलोदर दीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्कर विष्टरा याः ॥ 8 ॥

दद्याद्दयानु पवनो द्रविणांबुधारां
अस्मिन्नकिंचन विहंग शिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायण प्रणयिनी नयनांबुवाहः ॥ 9 ॥

गीर्देवतेति गरुडध्वज सुंदरीति
शाकंबरीति शशिशेखर वल्लभेति ।
सृष्टि स्थिति प्रलय केलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ॥ 10 ॥

श्रुत्यै नमोऽस्तु शुभकर्म फलप्रसूत्यै
रत्यै नमोऽस्तु रमणीय गुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्र निकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तम वल्लभायै ॥ 11 ॥

नमोऽस्तु नालीक निभाननायै
नमोऽस्तु दुग्धोदधि जन्मभूम्यै ।
नमोऽस्तु सोमामृत सोदरायै
नमोऽस्तु नारायण वल्लभायै ॥ 12 ॥

नमोऽस्तु हेमांबुज पीठिकायै
नमोऽस्तु भूमंडल नायिकायै ।
नमोऽस्तु देवादि दयापरायै
नमोऽस्तु शारंगायुध वल्लभायै ॥ 13 ॥

नमोऽस्तु देव्यै भृगुनंदनायै
नमोऽस्तु विष्णोरुरसि स्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदर वल्लभायै ॥ 14 ॥

नमोऽस्तु कांत्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नंदात्मज वल्लभायै ॥ 15 ॥

संपत्कराणि सकलेंद्रिय नंदनानि
साम्राज्य दानविभवानि सरोरुहाक्षि ।
त्वद्वंदनानि दुरिता हरणोद्यतानि
मामेव मातरनिशं कलयंतु मान्ये ॥ 16 ॥

यत्कटाक्ष समुपासना विधिः
सेवकस्य सकलार्थ संपदः ।
संतनोति वचनांग मानसैः
त्वां मुरारिहृदयेश्वरीं भजे ॥ 17 ॥

सरसिजनिलये सरोजहस्ते
धवलतमांशुक गंधमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरी प्रसीदमह्यं ॥ 18 ॥

दिग्घस्तिभिः कनक कुंभमुखावसृष्ट
स्वर्वाहिनी विमलचारुजलाप्लुतांगीम् ।
प्रातर्नमामि जगतां जननीमशेष
लोकधिनाथ गृहिणीममृताब्धिपुत्रीं ॥ 19 ॥

कमले कमलाक्ष वल्लभे त्वं
करुणापूर तरंगितैरपांगैः ।
अवलोकय मामकिंचनानां
प्रथमं पात्रमकृतिमं दयायाः ॥ 20 ॥

देवि प्रसीद जगदीश्वरि लोकमातः
कल्याणगात्रि कमलेक्षण जीवनाथे ।
दारिद्र्यभीतिहृदयं शरणागतं मां
आलोकय प्रतिदिनं सदयैरपांगैः ॥ 21 ॥

स्तुवंति ये स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमां ।
गुणाधिका गुरुतुर भाग्य भागिनः
भवंति ते भुवि बुध भाविताशयाः ॥ 22 ॥

सुवर्णधारा स्तोत्रं यच्छंकराचार्य निर्मितं
त्रिसंध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ॥







Browse Related Categories: