नव दुर्गा स्तोत्रम्
गणेशःहरिद्राभञ्चतुर्वादु हारिद्रवसनंविभुम् । पाशाङ्कुशधरं दैवंमोदकन्दन्तमेव च ॥
देवी शैलपुत्रीवन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखरां। वृषारूढां शूलधरां शैलपुत्री यशस्विनीं ॥
देवी ब्रह्मचारिणीदधाना करपद्माभ्यामक्षमाला कमण्डलू ।देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥
देवी चन्द्रघण्टेतिपिण्डजप्रवरारूढा चन्दकोपास्त्रकैर्युता ।प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥
देवी कूष्माण्डासुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥
देवीस्कन्दमातासिंहासनगता नित्यं पद्माश्रितकरद्वया ।शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥
देवीकात्यायणीचन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥
देवीकालरात्रिएकवेणी जपाकर्णपूर नग्ना खरास्थिता ।लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥ वामपादोल्लसल्लोहलताकण्टकभूषणा ।वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥
देवीमहागौरीश्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः ।महागौरी शुभं दद्यान्महादेवप्रमोददा ॥
देवीसिद्धिदात्रिसिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥
Browse Related Categories: