| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
हनुमान् (आञ्जनेय) अष्टोत्तर शतनाम स्तोत्रम् आञ्जनेयो महावीरो हनुमान्मारुतात्मजः । अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः । परविद्यापरीहारः परशौर्यविनाशनः । सर्वग्रहविनाशी च भीमसेनसहायकृत् । पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् । कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । कपिसेनानायकश्च भविष्यच्चतुराननः । सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलः । कारागृहविमोक्ता च शृङ्खलाबन्धमोचकः । वानरः केसरिसुतः सीताशोकनिवारकः । विभीषणप्रियकरो दशग्रीवकुलान्तकः । चिरञ्जीवी रामभक्तो दैत्यकार्यविघातकः । लङ्किणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः । सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः । कामरूपी पिङ्गलाक्षो वार्धिमैनाकपूजितः । रामसुग्रीवसन्धाता महिरावणमर्दनः । चतुर्बाहुर्दीनबन्धुर्महात्मा भक्तवत्सलः । कालनेमिप्रमथनो हरिमर्कटमर्कटः । योगी रामकथालोलः सीतान्वेषणपण्डितः । इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः । दशबाहुर्लोर्कपूज्यो जाम्बवत्प्रीतिवर्धनः । इत्येवं श्रीहनुमतो नाम्नामष्टोत्तरं शतम् ।
|