अन्नमय्य कीर्तन वन्दे वासुदेवं
वन्दे वासुदेवं बृन्दारकाधीश वन्दित पदाब्जं ॥
इन्दीवरश्याम मिन्दिराकुचतटी- चन्दनाङ्कित लसत्चारु देहं ।मन्दार मालिकामकुट संशोभितं कन्दर्पजनक मरविन्दनाभं ॥
धगधग कौस्तुभ धरण वक्षस्थलं खगराज वाहनं कमलनयनं ।निगमादिसेवितं निजरूपशेषप- न्नगराज शायिनं घननिवासं ॥
करिपुरनाथसंरक्षणे तत्परं करिराजवरद सङ्गतकराब्जं ।सरसीरुहाननं चक्रविभ्राजितं तिरु वेङ्कटाचलाधीशं भजे ॥
Browse Related Categories: