http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org


Home Song Lyrics V

Song Name: Vyasena Vraja Lilayam Nitya Tattvam

Official Name: Chapter 9; Krsnapti Varnanam

Author: Bhaktivinoda Thakura

Book Name: Krsna Samhita

Language: Sanskrit

 

A

 

LYRICS:

(१)

व्यासेन व्रजलीलायां नित्यतत्त्वं प्रकाशितम्

प्रपञ्चजनितं ज्ञानं नाप्नोति यत्स्वरूपकम्

 

(२)

जीवस्य सिद्धसत्तायां भासते तत्त्वमुत्तमम्

दूरतारहिते शुद्धे समाधौ निर्विकल्पके

 

(३)

मायासूतस्य विश्वस्य चिच्छायत्वात्समानता

चिच्छक्त्याविष्कृते कार्ये समाधावपि चात्मनि

 

(४)

तस्मात्तु व्रजभावानां कृष्णनामगुणात्मनाम्

गुणैर्जाड्यात्मकैः शश्वत्सादृश्यमुपलक्ष्यते

 

(५)

स्वप्रकाशस्वभावोऽयं समाधिः कथ्यते बुधैः

अतिसूक्ष्मस्वरूपत्वात्संशयात्स विलुप्यते

 

(६)

वयं तु संशयं त्यक्त्वा पश्यामस्तत्त्वमुत्तमम्

वृन्दावनान्तरे रम्ये श्रीकृष्णरूपसौभगम्

 

(७)

नरभावस्वरूपोऽयं चित्तत्त्वप्रतिपोषकः

स्निग्धश्यामात्मको वर्णः सर्वानन्दविवर्धकः

 

(८)

त्रितत्त्वभङ्गिमायुक्तो राजीवनयनान्वितः

शिखिपिच्छधरः श्रीमान्वनमालाविभूषितः

 

(९)

पीताम्बरः सुवेशाढ्यो वंशीन्यस्तमुखाम्बुजः

यमुनापुलिने रम्ये कदम्बतलमाश्रितः

 

(१०)

एतेन चित्स्वरूपेण लक्षणेन जगत्पतिः

लक्षितो नन्दजः कृष्णो वैष्णवेन समाधिना

 

(११)

आकर्षणस्वरूपेण वंशीगीतेन सुन्दरः

मादयन्विश्वमेतद्वै गोपीनामहरन्मनः

 

(१२)

जात्यादिमदविभ्रान्त्या कृष्णाप्तिर्दुर्हृदां कुतः

गोपीनां केवलं कृष्णश्चित्तमाकर्षणे क्षमः

 

(१३)

गोपीभावात्मकाः सिद्धाः साधकास्तदनुकृतेः

द्विविधाः साधवो ज्ञेयाः परमार्थविदा सदा

 

(१४)

संसृतौ भ्रमतां कर्णे प्रविष्टं कृष्णगीतकम्

बलादाकर्षयंश्चित्तमुत्तमान्कुरुते हि तान्

 

(१५)

पुंभावे विगते शीघ्रं स्त्रीभावो जायते तदा

पूर्वरागो भवेत्तेषामुन्मादलक्षणान्वितः

 

(१६)

श्रुत्वा कृष्णगुणं तत्र दर्शकाद्धि पुनः पुनः

चित्रितं रूपमन्वीक्ष्य वर्धते लालसा भृशम्

 

(१७)

प्रथमं सहजं ज्ञानं द्वितीयं शास्त्रवर्णनम्

तृतीयं कौशलं विश्वे कृष्णस्य चेशरूपिणः

 

(१८)

व्रजभावाश्रये कृष्णे श्रद्धा तु रागरूपका

तस्मात्सङ्गोऽथ साधूनां वर्तते व्रजवासिनाम्

 

(१९)

कदाचिदभिसारः स्याद्यमुनातटसन्निधौ

घटते मिलनं तत्र कान्तेन सहितं शुभम्

 

(२०)

कृष्णसङ्गात्परानन्दः स्वभावेन प्रवर्तते

पूर्वाश्रितं सुखं गार्ह्यं तत्क्षणाद्गोष्पदायते

 

(२१)

वर्धते परमानन्दो हृदये च दिने दिने

आत्मनामात्मनि प्रेष्ठे नित्यनूतनविग्रहे

 

(२२)

चिदानन्दस्य जीवस्य सच्चिदानन्दविग्रहे

याऽनुरक्तिः स्वतःसिद्धा सा रतिः प्रीतिबीजकम्

 

(२३)

सा रती रसमाश्रित्य वर्धते रसरूपधृक्

रसः पञ्चविधो मुख्यः गौणः सप्तविधस्तथा

 

(२४)

शान्तदास्यादयो मुख्याः सम्बन्धभावरूपकाः

रसा वीरादयो गौणाः सम्बन्धोत्थाः स्वभावतः

 

(२५)

रसरूपमवाप्येयं रतिर्भाति स्वरूपतः

विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः

 

(२६)

एषा कृष्णरतिः स्थायी भावो भक्तिरसो भवेद्

बद्धे भक्तिस्वरूपा सा मुक्ते सा प्रीतिरूपिणी

 

(२७)

मुक्ते सा वर्तते नित्या बद्धे सा साधिता भवेत्

नित्यसिद्धस्य भावस्य प्राकट्यं हृदि साध्यता

 

(२८)

आदर्शाच्चिन्मयाद्विश्वात्सम्प्राप्तं सुसमाधिना

सहजेन महाभागैर्व्यासादिभिरिदं मतम्

 

(२९)

महाभावाविर्भावो महारासावधिः क्रिया

नित्यसिद्धस्य जीवस्य नित्यसिद्धे परात्मनि

 

(३०)

एतावज्जडजन्यानां वाक्यानां चरमा गतिः

यदूर्ध्वं वर्तते तन्नो समाधौ परिदृश्यताम्

 

UPDATED: February 1, 2017