http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org


Home Song Lyrics P

Song Name: Priti Pravrt Samarambhe

Official Name: Chapter 5; Krsna Lila Varnanam Part 2

Author: Bhaktivinoda Thakura

Book Name: Krsna Samhita

Language: Sanskrit

 

A

 

LYRICS:

(१)

प्रीतिप्रावृट्समारम्भे गोप्यो भावात्मिकास्तदा

कृष्णस्य गुणगाने तु प्रमत्तास्ता हरिप्रियाः

 

(२)

श्रीकृष्णवेणुगीतेन व्याकुलास्ता समार्चयन्

योगमायां महादेवीं कृष्णलाभेच्छया व्रजे

 

(३)

येषां तु कृष्णदास्येच्छा वर्तते बलवत्तरा

गोपनीयं न तेषां हि स्वस्मिन्वान्यत्र किञ्चन

 

(४)

एतद्वै शिक्षयन्कृष्णो वस्त्राणि व्यहरन्प्रभुः

ददर्शानावृतं चित्तं रतिस्थानमनामयम्

 

(५)

ब्राह्मणांश्च जगन्नाथो यज्ञान्नं समयाचत

ब्राह्मणा न ददुर्भक्तं वर्णाभिमानिनो यतः

 

(६)

वेदवादरता विप्राः कर्मज्ञानपरायणाः

विधीनां वाहकाः शश्वत्कथं कृष्णरता हि ते

 

(७)

तेषां स्त्रियस्तदागत्य श्रीकृष्णसन्निधिं वने

अकुर्वन्नात्मदानं वै कृष्णाय परमात्मने

 

(८)

एतेन दर्शितं तत्त्वं जीवानां समदर्शनम्

श्रीकृष्णप्रीतिसम्पत्तौ जातिबुद्धिर्न कारणम्

 

(९)

नराणां वर्णभागो हि सामाजिकविधिर्मतः

त्यजन्वर्णाश्रमान्धर्मन्कृष्णार्थम्हि न दोषभाक्

 

(१०)

इन्द्रस्य कर्मरूपस्य निषिध्य यज्ञमुत्सवम्

वर्षणात्प्लावनात्तस्य ररक्ष गोकुलं हरिः

 

(११)

एतेन ज्ञापितं तत्त्वं कृष्णप्रीतिं गतस्य वै

न काचिद्वर्तते शङ्का विश्वनाशादकर्मणः

 

(१२)

येषां कृष्णः समुद्धर्ता तेषां हन्ता न कश्चन

विधीनां न बलं तेषु भक्तानां कुत्र बन्धनम्

 

(१३)

विश्वासविषये रम्ये नदी चिद्द्रवरूपिणी

तस्यां तु पितरं मग्नमुद्धृत्य लीलया हरिः

 

(१४)

दर्शयामास वैकुण्ठं गोपेभ्यो हरिरात्मनः

ऐश्वर्यं कृष्णतत्त्वे तु सर्वदा निहितं किल

 

(१५)

जीवानां नित्यसिद्धानामनुगतानामपि प्रियः

अकरोद्रासलीलां वै प्रीतितत्त्वप्रकाशिकाम्

 

(१६)

अन्तर्धानवियोगेन वर्धयन्स्मरमुत्तमम्

गोपिकारासचक्रे तु ननर्त कृपया हरिः

 

(१७)

जडात्मके यथा विश्वे ध्रुवस्याकर्षणात्किल

भ्रमन्ति मण्डलाकाराः ससूर्या ग्रहसंकुलाः

 

(१८)

तथा चिद्विषये कृष्णस्याकर्षणबलादपि

भ्रमन्ति नित्यशो जीवाः श्रीकृष्णे मध्यगे सति

 

(१९)

महारासविहारेऽस्मिन्पुरुषः कृष्ण एव हि

सर्वे नारीगणास्तत्र भोग्यभोक्तृविचारतः

 

(२०)

तत्रैव परमाराध्या ह्लादिनी कृष्णभासिनी

भावैः सा रासमध्यस्था सखिभी राधिकावृता

 

(२१)

महारासविहारान्ते जलक्रीडा स्वभावतः

वर्तते यमुनायां वै द्रवमय्यां सतां किल

 

(२२)

मुक्त्यहिग्रस्तनन्दस्तु कृष्णेन मोचितस्तदा

यशोमूर्धा सुदुर्दान्तः शङ्खचूडो हतः पुरा

 

(२३)

घोटकात्मा हतस्तेन केशी राज्यमदासुरः

मथुरां गन्तुकामेन कृष्णेन कंसवैरिणा

 

(२४)

घट्यानां घटकोऽक्रूरो मथुरामनयद्धरिम्

मल्लान्हत्वा हरिः कंसं सानुजं निपपात ह

 

(२५)

नास्तिक्ये विगते कंसे स्वातन्त्र्यमुग्रसेनकम्

तस्यैव पितरं कृष्णः कृतवान्क्षितिपालकम्

 

(२६)

कंसभार्याद्वयं गत्वा पितरं मगधाश्रयम्

कर्मकाण्डस्वरूपं तं वैधव्यं विन्यवेदयत्

 

(२७)

श्रुत्वैतन्मागधो राजा स्वसैन्यपरिवारितः

सप्तदशमहायुद्धं कृतवान्मथुरापुरे

 

(२८)

हरिणा मर्दितः सोऽपि गत्वाष्टदशमे रणे

अरुन्धन्मथुरां कृष्णो जगाम द्वारकां स्वकाम्

 

(२९)

मथुरायां वसन्कृष्णो गुर्वाश्रमाश्रयात्तदा

पठित्वा सर्वशास्त्राणि दत्तवान्सुतजीवनम्

 

(३०)

स्वतःसिद्धस्य कृष्णस्य ज्ञानं साध्यं भवेन्न हि

केवलं नरचित्तेषु तद्भावानां क्रमोद्गतिः

 

(३१)

कामिनामपि कृष्णे तु रतिः स्यान्मलसंयुता

सा रतिः क्रमशः प्रीतिर्भवतीह सुनिर्मला

 

(३२)

कुब्जायाः प्रणये तत्त्वमेतद्वै दर्शितं शुभम्

व्रजभावसुशिक्षार्थं गोकुले चोद्धवो गतः

 

(३३)

पाण्डवा धर्मशाखा हि कौरवाश्चेतराः स्मृताः

पाण्डवानां ततः कृष्णो बान्धवः कुलरक्षकः

 

(३४)

अक्रूरं भगवान्दूतं प्रेरयामास हस्तिनाम्

धर्मस्य कुशलार्थं वै पापिनां त्राणकामुकः

 

UPDATED: February 1, 2017